सु॒वीरो॑ वी॒रान् प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम् । स॒ञ्ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या शु॒क्रः शु॒क्रशो॑चिषा॒ निर॑स्त॒: शण्ड॑: शु॒क्रस्या॑धि॒ष्ठान॑मसि
suvī́ro vīrā́n prajánayan párīhy abhí rāyáspoṣeṇa yájamānam | sañjagmā́nō divā́ pṛthivyā́ḥ śukráḥ śukráśociṣā nírastaḥ śaṇḍáḥ śukrásyādhiṣṭhā́nam asi
সুবীৰ, বীৰসন্তান জন্ম দিয়া, ৰায়স্পোষে (ধন-সমৃদ্ধিৰ বৃদ্ধি)ৰে যজমানক চাৰিওফালে আৱৰি ধৰা। দ্যৌ আৰু পৃথিৱীৰ পৰা একত্ৰ হৈ, উজ্জ্বল দীপ্তিৰে উজ্জ্বল—শণ্ড, নিৰস্ত (শোধিত ৰূপে নিক্ষিপ্ত) হৈ, তুমি শুক্ৰৰ অধিষ্ঠান (আসন/স্থান) হোৱা।
सुवीरः । वीरान् । प्रजनयन् । परि । इहि । अभि । रायस्पोषेण । यजमानम् । सञ्जग्मानः । दिवा । पृथिव्याः । शुक्रः । शुक्रशोचिषा । निरस्तः । शण्डः । शुक्रस्य । अधिष्ठानम् । असि ।