रक्ष॑सां भा॒गो॒ऽसि॒ निर॑स्त॒ज रक्ष॑ इ॒दम॒हᳪ रक्षो॒ऽभि ति॑ष्ठामी॒दम॒हᳪ रक्षोऽव॑ बाध इ॒दम॒हᳪ रक्षो॑ऽध॒मं तमो॑ नयामि । घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्णु॑वाथां वायो॒ वे स्तो॒काना॑मग्निराज्य॑स्य वेतु॒ स्वाहा॒ स्वाहा॑कृते ऊ॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम् ।
rákṣasāṃ bhāgó ’si nirástaja rákṣa idám aháṃ rákṣo ’bhí tiṣṭhāmī́dam aháṃ rákṣo ’vá bādha idám aháṃ rákṣo ’dhámaṃ támo nayāmi | ghṛténa dyāvāpṛthivī́ prórṇuvāthāṃ vāyó ve stokā́nām agnír ā́jyasya vetu svā́hā svā́hākṛte ū́rdhvanabhasaṃ mārutáṃ gacchatam |
তুমি ৰাক্ষসসকলৰ ভাগ; নিক্ষিপ্ত হওক! এই কৰ্ম/স্থানত মই ৰক্ষসৰ বিৰুদ্ধে পদাৰ্পণ কৰোঁ; এইদ্বাৰা মই ৰক্ষসক দমন কৰোঁ; এইদ্বাৰা মই ৰক্ষসক অধমতম অন্ধকাৰলৈ লৈ যাওঁ। ঘৃতদ্বাৰা, হে দ্যাৱা-পৃথিৱী, আমাক আৱৰণ কৰা; বায়ু, ঘৃতৰ বিন্দুবোৰ বহন কৰক; অগ্নি, আজ্যৰ (ঘৃতৰ) বিন্দুবোৰ বহন কৰক—স্বাহা, স্বাহা! স্বাহাকৃত আহুতিলৈ, ঊর্ধ্ব নাভসত, মাৰুতলোকলৈ গমন কৰা।
रक्षसाम् । भागः । असि । निरस्तज । रक्षः । इदम् । अहम् । रक्षः-अभि । तिष्ठामि । इदम् । अहम् । रक्षः-अव । बाधे । इदम् । अहम् । रक्षः । अधमम् । तमः । नयामि । घृतेन । द्यावा-पृथिवी । प्र-ऊर्णुवाथाम् । वायोः । वे । स्तोकानाम् । अग्निः । आज्यस्य । वेतु । स्वाहा । स्वाहा-कृते । ऊर्ध्व-नभसम् । मारुतम् । गच्छतम् ।