शं नो॒ वात॑: पवता॒ᳪ शं न॑स्तपतु॒ सूर्य॑: । शं न॒: कनि॑क्रदद्दे॒वः प॒र्जन्यो॑ अ॒भि व॑र्षतु
śáṃ no vā́taḥ pavatāṃ śáṃ nas tapatu sū́ryaḥ | śáṃ naḥ kaníkradad deváḥ párjanyo abhí varṣatu
আমালৈ কল্যাণ বোৱাওক বায়ু; কল্যাণেৰে আমাক উষ্ণ কৰক সূৰ্য। গর্জনকাৰী দেৱ পৰ্জন্য আমালৈ শুভভাৱে বৰষুণ বৰষাওক।
शम् । नः । वातः । पवताम् । शम् । नः । तपतु । सूर्यः । शम् । नः । कनिक्रदत् । देवः । पर्जन्यः । अभि । वर्षतु