ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑ । अप॒ शत्रू॑न् विध्यताᳪ संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रा॑न्
té ācarántī samáneva yóṣā mā́teva putráṃ bíbhratām upásthe | ápa śátrūn vidhyatāṃ saṃvidānē ā́rtnī imé víṣphurantī amítrān
সমৰত একেলগে চলা কন্যাৰ দৰে, মায়ে যেন পুত্ৰক কোলত ধৰে তেনেদৰে—একে মনত কাৰ্য কৰা এই দুটা ধনুৰ আগ (আর্ত্নী) শত্রুক বিদ্ধ কৰি আঁতৰাওক, শত্রুৰ বিপক্ষে কঁপনি তুলি।
ते । आचरन्ती । समना-इव । योषा । माता-इव । पुत्रम् । बिभृताम् । उपस्थे । अप । शत्रून् । विध्यताम् । संविदाने । आर्त्नी । इमे । विष्फुरन्ती । अमित्रान्