धन्व॑ना॒ गा धन्व॑ना॒ऽऽजिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम । धनु॒: शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वा॑: प्र॒दिशो॑ जयेम
dhánvanā gā́ dhánvanā’jím jayema dhánvanā tīvrā́ḥ samádo jayema | dhánuḥ śátror apakā́maṃ kṛṇoti dhánvanā sárvāḥ pradíśo jayema
ধনুৰে গাইসমূহ জয় কৰোঁ; ধনুৰে দৌৰৰ বিজয় লাভ কৰোঁ; ধনুৰে তীব্ৰ সংঘৰ্ষসমূহ জয় কৰোঁ। ধনু শত্রুৰ কামনা ব্যৰ্থ কৰে; ধনুৰে সকলো দিশ জয় কৰোঁ।
धन्वना । गाः । धन्वना । अजिम् । जयेम । धन्वना । तीव्राः । समदः । जयेम । धनुः । शत्रोः । अपकामम् । कृणोति । धन्वना । सर्वाः । प्रदिशः । जयेम