इन्द्र॒ गोम॑न्नि॒हा या॑हि॒ पिबा॒ सोम॑ᳪ शतक्रतो । वि॒द्यद्भि॒र्ग्राव॑भिः सु॒तम् । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ गोम॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ गोम॑ते
índra gómann ihá yā́hi píbā sómaṃ śatakrato | vidyádbhir grā́vabhiḥ sutám | upayā́magṛhīto ’sī́ndrāya tvā́ gómat eṣá te yóniḥ índrāya tvā́ gómate
হে গোসমৃদ্ধ ইন্দ্ৰ, ইয়ালৈ আহা; হে শতক্ৰতু, সোম পান কৰা—বিদ্যুৎসম দীপ্ত গ্ৰাৱ-পাথৰে পেষিত সোম। উপযাম-গ্ৰহণে গৃহীত তুমি গোসমৃদ্ধ ইন্দ্ৰৰ বাবে; এই তোমাৰ যোনি (আশ্ৰয়স্থান); গোসমৃদ্ধ ইন্দ্ৰৰ বাবে তোমাক।
इन्द्र । गोम॑न् । इ॒ह । आ॒ । या॒हि । पिब॑ । सोम॑म् । श॒त॒क्र॒तो॒ इति॑ । वि॒द्यद्भिः । ग्राव॑भिः । सु॒तम् । उ॒प॒या॒म-गृ॑हीतः । अ॒सि । इन्द्रा॑य । त्वा । गोम॑ते । ए॒षः । ते॒ । योनि॑ः । इन्द्रा॑य । त्वा । गोम॑ते