होता॑ यक्षद॒श्विनौ॒ छाग॑स्य ह॒विष॒ आत्ता॑म॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भो घस्तां॑ नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमानाᳪ सु॒मत्क्ष॑राणाᳪ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑त ए॒वाश्विना॑ जु॒षेता॑ᳪ ह॒विर्होत॒र्यज॑
hótā yakṣad aśvínau chā́gasya havíṣa ā́ttām adyá mádhyato médá udbhṛ́taṃ púrā dvéṣobhyaḥ púrā pauruṣeyyā́ grábho ghastā́ṃ nūnáṃ ghā́se ajrā́ṇāṃ yávasaprathamānāṃ sumátkṣarāṇāṃ śatarudríyāṇām agníṣvāttānāṃ pī́vopavasānāṃ pārśvatáḥ śróṇitaḥ śitā́mata utsā́dato ’ṅgād aṅgā́d avattā́nāṃ kárata evā́śvinā juṣétāṃ havír hótar yaja
হোতা অশ্বিনৌক যজ কৰক; আজি ছাগৰ হৱিষ তেওঁলোকে গ্ৰহণ কৰক—মধ্যভাগৰ পৰা উলিয়াই অনা মেদ। ই পূৰ্বতে দ্বেষসমূহৰ বিৰুদ্ধে, পূৰ্বতে মানৱীয় গ্ৰহণ/আক্ৰমণৰ বিৰুদ্ধে ৰক্ষাৰ্থ হওক। এতিয়া ই অক্ষতসকলৰ চৰণৰ বাবে হওক—চৰণভূমিত প্ৰথম, সুমধুৰ ৰস টোপ টোপকৈ ঝৰা, শতৰুদ্ৰীয়-সম্বন্ধীয়, অগ্নিত স্বাহাকৃত, পীৱ-উপৱসানযুক্ত; পাৰ্শ্বতঃ, শ্ৰোণিতঃ, শিতামতঃ, আৰু অঙ্গ-অঙ্গৰ পৰা উত্থাপিত অংশসমূহৰূপে। অশ্বিনৌ এই হৱিষত সন্তুষ্ট হওক। হোতা, যজ।
होता । यक्षत् । अश्विनौ । छागस्य । हविषः । आत्ताम् । अद्य । मध्यतः । मेदः । उद्भृतम् । पुरा । द्वेषोभ्यः । पुरा । पौरुषेय्याः । ग्रभः । घस्ताम् । नूनम् । घासे । अज्राणाम् । यवसप्रथमानाम् । सुमत्क्षराणाम् । शतरुद्रियाणाम् । अग्निष्वात्तानाम् । पीवोपवसानाम् । पार्श्वतः । श्रोणितः । शितामतः । उत्सादतः । अङ्गात्-अङ्गात् । अवत्तानाम् । करतः । एव । अश्विना । जुषेताम् । हविः । होतः । यज ।