इन्दु॒र्दक्ष॑ः श्ये॒न ऋ॒तावा॒ हिर॑ण्यपक्षः शकु॒नो भु॑र॒ण्युः । म॒हान्त्स॒धस्थे॑ ध्रु॒व आ निष॑त्तो॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪसीः ॥
índur dákṣaḥ śyená r̥tā́vā híraṇyapakṣaḥ śakunó bhuraṇyúḥ | mahā́n sadhásthe dhruvá ā́ níṣatto námas te astu mā́ mā́ hiṃsīḥ ||
সোম (ইন্দু), দক্ষ, শ্যেন (বাজ), ঋত-পালক, সুৱৰ্ণ-পক্ষী, দ্ৰুতগামী পক্ষী—মহান, যজ্ঞ-আসনত ধ্ৰুৱভাৱে উপবিষ্ট। তোমাক নমস্কাৰ; মোক কেতিয়াও হিংসা নকৰিবা।
इन्दुः । दक्षः । श्ये॒नः । ऋ॒तावा॒ । हिर॑ण्य-पक्षः । शकु॒नः । भु॑र॒ण्युः । म॒हान् । स॒धस्थे॑ । ध्रु॒वः । आ । निष॑त्तः । नमः । ते॒ । अ॒स्तु॒ । मा । मा॒ । हिᳪसीः ।