इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो॑ अप्स॒रस॒ ऊर्जो॒ नाम॑ । स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑
iṣiró viśvá-vyācā́ vātó gandharvás tásyā́po apsárasa ūŕjo nā́ma | sá na idáṁ bráhma kṣatráṁ pātu tásmai svā́hā vā́ṭ tā́bhyaḥ svā́hā
ইষিৰো, বিশ্বব্যাচা বায়ু—সেই গন্ধৰ্ব; তাৰ আপঃ (জলসমূহ) অপ্সৰাসগণ, ‘ঊৰ্জঃ’ নামে। সি আমাৰ এই ব্ৰহ্ম আৰু ক্ষত্ৰক ৰক্ষা কৰক। তস্মৈ স্বাহা! ৱাট্! তাভ্যঃ স্বাহা!
इ॒षि॒रः । वि॒श्व-व्य॑चा । वातः॑ । गन्ध॒र्वः । तस्य॑ । आपः॑ । अ॒प्स॒रसः॑ । ऊर्जः॑ । नाम॑ । सः । नः॑ । इ॒दम् । ब्रह्म॑ । क्ष॒त्रम् । पा॒तु॒ । तस्मै॑ । स्वाहा॑ । वाट् । ताभ्यः॑ । स्वाहा॑