नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमोऽग्र्या॑य च प्रथ॒माय॑ च
námo hrasvā́ya ca vāmanā́ya ca námo bṛhaté ca várṣīyase ca námo vṛddhā́ya ca savṛ́dhe ca námo’gryā́ya ca prathamā́ya ca
হ্ৰস্বলৈ আৰু বামনলৈ নমস্কাৰ; বৃহৎলৈ আৰু অধিক বৰ্ষীয়সলৈ নমস্কাৰ; বৃদ্ধলৈ আৰু সহ-বৃদ্ধ (যি একেলগে বৃদ্ধি পায়)লৈ নমস্কাৰ; অগ্ৰ্যলৈ আৰু প্ৰথমলৈ নমস্কাৰ।
नमः । ह्रस्वाय । च । वामनाय । च । नमः । बृहते । च । वर्षीयसे । च । नमः । वृद्धाय । च । स-वृधे । च । नमः । अग्र्याय । च । प्रथमाय । च