अ॒यमु॑त्त॒रात्सं॒यद्व॑सु॒स्तस्य॒ तार्क्ष्य॒श्चारि॑ष्टनेमिश्च सेनानीग्राम॒ण्यौ॒ । वि॒श्वाची॑ च घृ॒ताची॑ चाप्स॒रसा॒वापो॑ हे॒तिर्वात॒: प्रहे॑ति॒स्तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः
ayam uttarāt saṁyadvasus tasya tārkṣyaś cāriṣṭanemiś ca senānīgrāmaṇyau | viśvācī ca ghr̥tācī cāpsarasāv āpo hetiḥ vātaḥ prahetiḥ tebhyo namo astu te no ’vantu te no mr̥ḍayantu te yaṁ dviṣmo yaś ca no dveṣṭi tameṣāṁ jambhe dadhmaḥ
এই উত্তৰ দিশাৰ পৰা সংযদ্বসু আছে; তেওঁৰ তাৰ্ক্ষ্য আৰু অৰিষ্টনেমি—দুজন সেনানী আৰু গ্ৰামণী। বিশ্বাচী আৰু ঘৃতাচী—দুজনী অপ্সৰা। আপঃ (জলসমূহ) পশুধন; হেতি (অস্ত্ৰ) তেওঁৰ, বাত (বায়ু), আৰু প্ৰহেতি (নিক্ষিপ্ত অস্ত্ৰ)। তেওঁলোকক নমস্কাৰ হওক; তেওঁলোকে আমাক ৰক্ষা কৰক, আমাক কৃপা কৰক। আমি যাক দ্বেষ কৰোঁ আৰু যি আমাক দ্বেষ কৰে, তাক আমি তেওঁলোকৰ জম্ভত নিক্ষেপ কৰোঁ।
अ॒यम् । उ॑त्त॒रात् । सम्-यद्व॑सुः । तस्य॑ । तार्क्ष्यः॑ । च । अरि॑ष्ट-नेमिः । च । सेनानी-ग्राम॒ण्यौ॒ । वि॒श्वाची॑ । च । घृ॒ताची॑ । च । अ॒प्स॒रसौ॑ । आपः॑ । हे॒तिः । वातः॑ । प्र-हे॑तिः । तेभ्यः॑ । नमः॑ । अस्तु । ते । नः । अवन्तु । ते । नः । मृडयन्तु । ते । यम् । द्वि॒ष्मः । यः । च । नः । द्वेष्टि । तम् । एषाम् । जम्भे॑ । दध्मः