यं ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒ पाशं॑ ग्री॒वास्व॑विचृ॒त्यम् । तं ते॒ वि ष्या॒म्यायु॑षो॒ न मध्या॒दथै॒तं पि॒तुम॑द्धि॒ प्रसू॑तः । नमो॒ भूत्यै॒ येदं च॒कार॑
yáṃ te devī nirṛ́tir ābabándha pā́śaṃ grīvā́sv avicṛ́tyam | táṃ te ví syāmy ā́yuṣo ná madhyā́d athaítáṃ pítum addhí prasūtáḥ | námo bhū́tyai yédáṃ cakā́ra
হে দেবী নিৰৃতি, তুমি যি অচ্ছেদ্য বুলি গণ্য পাষ (ফাঁস) গ্ৰীৱাত বান্ধি দিছিলা, সেই পাষ মই তোমাৰ বাবে শিথিল কৰোঁ—আয়ুষৰ মধ্যভাগৰ পৰা নহয়। তাৰ পাছত, যথাযথভাবে প্ৰেৰিত হৈ, এই পিতু (পোষণ/আহাৰ) ভক্ষণ কৰা। যিয়ে এই (মুক্তি) কৰিল, সেই ভূতি (সমৃদ্ধি)-লৈ নমস্কাৰ।
यम् । ते । देवी । निरृतिः । आ-बबन्ध । पाशम् । ग्रीवासु । अवि-चृत्यम् । तम् । ते । वि । स्यामि । आयुषः । न । मध्यात् । अथ । एतम् । पितुम् । अद्धि । प्र-सूतः । नमः । भूत्यै । यत् । इदम् । चकार ।