दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वत्पृ॑थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वदा भ॑र॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वत्
devásya tvā savitúḥ prasavé’śvinór bāhúbhyāṃ pūṣṇó hástābhyām | ā́ dadé gāyatréṇa chándasā’ṅgirasvát pṛthivyā́ḥ sadhásthād agníṃ purīṣyám aṅgirasvádā́ bhara trā́iṣṭubhena chándasā’ṅgirasvát
দেৱ সৱিতৃৰ প্ৰসৱত, অশ্বিনদ্বয়ৰ বাহুৰে, পূষণৰ হাতদ্বয়ে, মই তোমাক উঠাই লওঁ। গায়ত্ৰী ছন্দে, অঙ্গিৰস-সদৃশভাৱে, পৃথিৱীৰ সধস্থৰ পৰা ‘পুৰীষ্য’ অগ্নিক গ্ৰহণ কৰোঁ; ত্ৰিষ্টুভ ছন্দে, অঙ্গিৰস-সদৃশভাৱে, তুমি (তাক) আনি দিয়া—অঙ্গিৰস-সদৃশভাৱে।
दे॒वस्य॑ । त्वा । स॒वि॒तुः । प्र॒स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॑म् । पू॒ष्णः । हस्ता॑भ्याम् । आ । द॒दे । गा॒य॒त्रेण॑ । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । पृ॒थि॒व्याः । स॒धस्था॑त् । अ॒ग्निम् । पु॒री॒ष्य॑म् । अ॒ङ्गि॒र॒स्वदा । भ॒र । त्रैष्टु॑भेन । छन्द॑सा । अ॒ङ्गि॒र॒स्वत्