हिर॑ण्यरूपा उ॒षसो॑ विरो॒क उ॒भावि॑न्द्रा॒ उदि॑थ॒: सूर्य॑श्च । आ रो॑हतं वरुण मित्र॒ गर्त्तं॒ तत॑श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च मि॒त्रो॒ऽसि॒ वरु॑णोऽसि
híraṇyarūpā uṣáso viróka ubhā́v indrā́ údithaḥ sū́ryaś ca | ā́ rohatam varuṇa mitra gártaṃ tátaś cakṣāthām áditiṃ dítiṃ ca mitró ’si váruṇo ’si
সুৱৰ্ণৰূপা উষাসকল দীপ্তিময়; উভয়ে—ইন্দ্ৰ আৰু সূৰ্য—উদিত হৈছে। হে মিত্ৰ-বৰুণ, প্ৰস্তুত আসনত আৰোহণ কৰা; তাতৰ পৰা আদিতি আৰু দিতিক চাওক। তুমি মিত্ৰ; তুমি বৰুণ।
हिरण्य-रूपाः । उषसः । विरोकः । उभौ । इन्द्रौ (इन्द्रा) । उदितः । सूर्यः । च । आ । रोहतम् । वरुण । मित्र । गर्तम् । ततः । चक्षाथाम् । अदितिम् । दितिम् । च । मित्रः । असि । वरुणः । असि