Sukta 7.18
शश्वन्तो हि शत्रवो रारधुष्टे भेदस्य चिच्छर्धतो विन्द रन्धिम् । मर्ताँ एनः स्तुवतो यः कृणोति तिग्मं तस्मिन्नि जहि वज्रमिन्द्र ॥
शश्व॑न्तो॒ हि शत्र॑वो रार॒धुष्टे॑ भे॒दस्य॑ चि॒च्छर्ध॑तो विन्द॒ रन्धि॑म् । मर्ताँ॒ एन॑: स्तुव॒तो यः कृ॒णोति॑ ति॒ग्मं तस्मि॒न्नि ज॑हि॒ वज्र॑मिन्द्र ॥
śáśvanto hí śátravo rāradhúṣ ṭe bhedásya cit chárdhato vinda rándhim | martā́m̐ énaḥ stuvató yáḥ kṛṇóti tigmáṁ tásmin ní jahi vájram indra ||
শত্ৰুবোৰ সঁচাকৈয়ে অবিৰত; সিহঁতে তোমাক চেপি ধৰে—ভাঙনৰ মাজতো গোট খাই উঠে; আমাৰ বাবে ফাঁট, পথ-খোলা বিচাৰি দিয়া। যি মৰ্ত্য স্তৱকাৰীৰ ওপৰত পাপ আনে, তাৰ ওপৰত তীক্ষ্ণ বজ্ৰশক্তি নিক্ষেপ কৰা, হে ইন্দ্ৰ।
शश्व॑न्तः । हि । शत्र॑वः । र॒र॒धुः । ते॒ । भे॒दस्य॑ । चि॒त् । शर्ध॑तः । वि॒न्द॒ । रन्धि॑म् । मर्ता॑न् । एनः॑ । स्तु॒व॒तः । यः । कृ॒णोति॑ । ति॒ग्मम् । तस्मि॑न् । नि । ज॒हि॒ । वज्र॑म् । इ॒न्द्र॒ ॥शश्वन्तः । हि । शत्रवः । ररधुः । ते । भेदस्य । चित् । शर्धतः । विन्द । रन्धिम् । मर्तान् । एनः । स्तुवतः । यः । कृणोति । तिग्मम् । तस्मिन् । नि । जहि । वज्रम् । इन्द्र ॥śaśvantaḥ | hi | śatravaḥ | raradhuḥ | te | bhedasya | cit | śardhataḥ | vinda | randhim | martān | enaḥ | stuvataḥ | yaḥ | kṛṇoti | tigmam | tasmin | ni | jahi | vajram | indra