Sukta 10.66
समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात्तनयित्नुरर्णवः । अहिर्बुध्न्यः शृणवद्वचांसि मे विश्वे देवास उत सूरयो मम ॥
स॒मु॒द्रः सिन्धू॒ रजो॑ अ॒न्तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर॑र्ण॒वः । अहि॑र्बु॒ध्न्य॑: शृणव॒द्वचां॑सि मे॒ विश्वे॑ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ॥
samudráḥ síndhū rájo antárikṣam ajá éka-pāt tanayitnúr arṇaváḥ | áhír budhnyàḥ śṛṇavád vácāṃsi me víśve devā́sa utá sūráyo máma ||
সমুদ্ৰ, সিন্ধু, ৰজঃ (আকাশীয় বিস্তাৰ) আৰু অন্তৰিক্ষ—অজ একপাদ, তনয়িত্নু (বজ্ৰ-গৰ্জনজনিত), অৰ্ণৱ (প্ৰলয়-তুল্য প্লাৱন)—অহিৰ্বুধ্ন্য মোৰ বাক্যসমূহ শুনক; বিশ্বে দেৱাস আৰু মোৰ সূৰয়ো (ঋষিসকল)ো শুনক।
स॒मु॒द्रः । सिन्धुः॑ । रजः॑ । अ॒न्तरि॑क्षम् । अ॒जः । एक॑ऽपात् । त॒न॒यि॒त्नुः । अ॒र्ण॒वः । अहिः॑ । बु॒ध्न्यः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ । विश्वे॑ । दे॒वासः॑ । उ॒त । सू॒रयः॑ । मम॑ ॥समुद्रः । सिन्धुः । रजः । अन्तरिक्षम् । अजः । एकपात् । तनयित्नुः । अर्णवः । अहिः । बुध्न्यः । शृणवत् । वचांसि । मे । विश्वे । देवासः । उत । सूरयः । मम ॥samudraḥ | sindhuḥ | rajaḥ | antarikṣam | ajaḥ | eka-pāt | tanayitnuḥ | arṇavaḥ | ahiḥ | budhnyaḥ | śṛṇavat | vacāṃsi | me | viśve | devāsaḥ | uta | sūrayaḥ | mama