Sukta 10.66
देवान्हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः । ये वावृधुः प्रतरं विश्ववेदस इन्द्रज्येष्ठासो अमृता ऋतावृधः ॥
दे॒वान्हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये॑ ज्योति॒ष्कृतो॑ अध्व॒रस्य॒ प्रचे॑तसः । ये वा॑वृ॒धुः प्र॑त॒रं वि॒श्ववे॑दस॒ इन्द्र॑ज्येष्ठासो अ॒मृता॑ ऋता॒वृध॑: ॥
devā́nhuve bṛhá cchravas aḥ svastáye jyótiṣ-kṛ́to adhvarásya prá-cetasaḥ | yé vāvṛdhúḥ prataráṃ viśvá-vedasa índra-jyeṣṭhāso amṛ́tā ṛtā-vṛ́dhaḥ ||
মই বৃহৎ-শ্ৰৱস, স্বস্তিৰ বাবে দেৱতাসকলক আহ্বান কৰোঁ—যিসকলে অধ্বৰ যজ্ঞৰ জ্যোতি গঢ়ে, প্ৰচেতস (জাগ্ৰত-চেতনা)সকল। যিসকলে অগ্ৰগতিৰ যাত্ৰাত অধিক বঢ়িছে, বিশ্ববেদস (সৰ্বজ্ঞ), ইন্দ্ৰ-জ্যেষ্ঠ—অমৃত, ঋত-বৃদ্ধি কৰোঁতা।
दे॒वान् । हु॒वे॒ । बृ॒हत्ऽश्र॑वसः । स्व॒स्तये॑ । ज्यो॒तिः॒ऽकृतः॑ । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसः । ये । व॒वृ॒धुः । प्र॒ऽत॒रम् । वि॒श्वऽवे॑दसः । इन्द्र॑ऽज्येष्ठासः । अ॒मृताः॑ । ऋ॒त॒ऽवृधः॑ ॥देवान् । हुवे । बृहत्श्रवसः । स्वस्तये । ज्योतिःकृतः । अध्वरस्य । प्रचेतसः । ये । ववृधुः । प्रतरम् । विश्ववेदसः । इन्द्रज्येष्ठासः । अमृताः । ऋतवृधः ॥devān | huve | bṛhat-śravasaḥ | svastaye | jyotiḥ-kṛtaḥ | adhvarasya | pra-cetasaḥ | ye | vavṛdhuḥ | pra-taram | viśva-vedasaḥ | indra-jyeṣṭhāsaḥ | amṛtāḥ | ṛta-vṛdhaḥ