Sukta 1.177
ओ सुष्टुत इन्द्र याह्यर्वाङुप ब्रह्माणि मान्यस्य कारोः । विद्याम वस्तोरवसा गृणन्तो विद्यामेषं वृजनं जीरदानुम् ॥
ओ सुष्टु॑त इन्द्र याह्य॒र्वाङुप॒ ब्रह्मा॑णि मा॒न्यस्य॑ का॒रोः । वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
ó suṣṭúta indra yāhy arvā́ṅ úpa bráhmāṇi mā́nyasya kāróḥ | vidyā́ma vástōr ávasā gṛṇánto vidyā́meṣáṃ vṛ́janaṃ jīrá-dānum ||
হে সু-স্তুত ইন্দ্ৰ, আৰৱাং (ইয়ালৈ) আহা—যোগ্য গায়কৰ মান্য ব্ৰহ্মাণিসকলৰ ওচৰলৈ। আমি স্তৱ গাই তোমাৰ অৱসা (সহায়) দ্বাৰা প্ৰভাতৰ দীপ্ত অৱস্থা লাভ কৰোঁ; হে দ্ৰুত দানকাৰী, আমি এষ (প্ৰেৰণা) আৰু বিজয়ী পূৰ্ণতা—বৃজনং—লাভ কৰোঁ।
ओ इति॑ । सुऽस्तु॑तः । इ॒न्द्र॒ । या॒हि॒ । अ॒र्वाङ् । उप॑ । ब्रह्मा॑णि । मा॒न्यस्य॑ । का॒रोः । वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥ओ इति । सुस्तुतः । इन्द्र । याहि । अर्वाङ् । उप । ब्रह्माणि । मान्यस्य । कारोः । विद्याम । वस्तोः । अवसा । गृणन्तः । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥o iti | su-stutaḥ | indra | yāhi | arvāṅ | upa | brahmāṇi | mānyasya | kāroḥ | vidyāma | vastoḥ | avasā | gṛṇantaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum