Sukta 1.164
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥
इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् । एकं॒ सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑त॒रिश्वा॑नमाहुः ॥
índraṃ mitráṃ váruṇam agním āhur átho divyáḥ sá suparṇó garútmān | ékaṃ sád víprā bahudhā́ vadanty agníṃ yamáṃ mātáriśvānam āhuḥ ||
তেওঁক ইন্দ্ৰ, মিত্ৰ, বৰুণ, অগ্নি বুলি কয়; আৰু তেওঁ দিৱ্য সুপৰ্ণ গৰুত্মান। সদ্ একেই; বিপ্ৰসকলে তাক বহুধা কয়—অগ্নি, যম, মাতৰিশ্বান বুলিও তেওঁক আহ্বান কৰে।
इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । अ॒ग्निम् । आ॒हुः॒ । अथो॒ इति॑ । दि॒व्यः । सः । सु॒ऽप॒र्णः । ग॒रुत्मा॑न् । एक॑म् । सत् । विप्राः॑ । ब॒हु॒ऽधा । व॒द॒न्ति॒ । अ॒ग्निम् । य॒मम् । मा॒त॒रिश्वा॑नम् । आ॒हुः॒ ॥इन्द्रम् । मित्रम् । वरुणम् । अग्निम् । आहुः । अथो इति । दिव्यः । सः । सुपर्णः । गरुत्मान् । एकम् । सत् । विप्राः । बहुधा । वदन्ति । अग्निम् । यमम् । मातरिश्वानम् । आहुः ॥indram | mitram | varuṇam | agnim | āhuḥ | atho iti | divyaḥ | saḥ | su-parṇaḥ | garutmān | ekam | sat | viprāḥ | bahu-dhā | vadanti | agnim | yamam | mātariśvānam | āhuḥ