Sukta 1.164
तिस्रो मातॄस्त्रीन्पितॄन्बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति । मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम् ॥
ति॒स्रो मा॒तॄस्त्रीन्पि॒तॄन्बिभ्र॒देक॑ ऊ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयन्ति । म॒न्त्रय॑न्ते दि॒वो अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदं॒ वाच॒मवि॑श्वमिन्वाम् ॥
tisró mātṝ́s trī́n pitṝ́n bíbhrad éka ūrdhvás tasthau ném ava glāpayanti | mantráyante divó amúṣya pṛṣṭhé viśvavídam vā́cam áviśvaminvām ||
তিন মাতৃ আৰু তিন পিতৃ বহন কৰি এক জনে ঊৰ্ধ্বে থিয় হ’ল; সিহঁতে তাক ন ক্লান্ত কৰে, ন তললৈ চেপি ধৰে। সেই দ্যৌৰ পৃষ্ঠত সিহঁতে পৰামৰ্শ কৰে—বিশ্ব-বিদ (সৰ্বজ্ঞ) বাণী গঢ়ে—যি বাণী বিশ্বসমূহক ক্ষয় নকৰে।
ति॒स्रः । मा॒तॄः । त्रीन् । पि॒तॄन् । बिभ्र॑त् । एकः॑ । ऊ॒र्ध्वः । त॒स्थौ॒ । न । ई॒म् । अव॑ । ग्ल॒प॒य॒न्ति॒ । म॒न्त्रय॑न्ते । दि॒वः । अ॒मुष्य॑ । पृ॒ष्ठे । वि॒श्व॒ऽविद॑म् । वाच॑म् । अवि॑श्वऽमिन्वाम् ॥तिस्रः । मातॄः । त्रीन् । पितॄन् । बिभ्रत् । एकः । ऊर्ध्वः । तस्थौ । न । ईम् । अव । ग्लपयन्ति । मन्त्रयन्ते । दिवः । अमुष्य । पृष्ठे । विश्वविदम् । वाचम् । अविश्वमिन्वाम् ॥tisraḥ | mātṝḥ | trīn | pitṝn | bibhrat | ekaḥ | ūrdhvaḥ | tasthau | na | īm | ava | glapayanti | mantrayante | divaḥ | amuṣya | pṛṣṭhe | viśva-vidam | vācam | aviśva-minvām