Sukta 1.117
शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति । जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान् ॥
शु॒नम॒न्धाय॒ भर॑मह्वय॒त्सा वृ॒कीर॑श्विना वृषणा॒ नरेति॑ । जा॒रः क॒नीन॑ इव चक्षदा॒न ऋ॒ज्राश्व॑: श॒तमेकं॑ च मे॒षान् ॥
śunám andhā́ya bháram ahvayat sā́ vṛkī́r aśvinā vṛ́ṣaṇā náreti | jāráḥ kanī́na iva cakṣadāná ṛ́jrāśvaḥ śatám ékaṃ ca meṣā́n ||
অন্ধজনৰ বাবে যি ‘ভাগ্য’ বুলি কোৱা বোজা আছিল, সেইদৰে বাঘিনী (বৃকী) চিঞৰি উঠিল—“হে অশ্বিনদ্বয়, বৃষণ, নৰবীৰ!” ঋজ্ৰাশ্বে কন্যাৰ প্ৰতি যুৱ প্ৰেমিকৰ দৰে দৃষ্টি দান কৰি, একশ এক মেষা অৰ্পণ কৰিলে।
शु॒नम् । अ॒न्धाय॑ । भर॑म् । अ॒ह्व॒य॒त् । सा । वृ॒कीः । अ॒श्वि॒ना॒ । वृ॒ष॒णा॒ । नरा॑ । इति॑ । जा॒रः । क॒नीनः॑ऽइव । च॒क्ष॒दा॒नः । ऋ॒ज्रऽअ॑श्वः । श॒तम् । एक॑म् । च॒ । मे॒षान् ॥शुनम् । अन्धाय । भरम् । अह्वयत् । सा । वृकीः । अश्विना । वृषणा । नरा । इति । जारः । कनीनःइव । चक्षदानः । ऋज्रअश्वः । शतम् । एकम् । च । मेषान् ॥śunam | andhāya | bharam | ahvayat | sā | vṛkīḥ | aśvinā | vṛṣaṇā | narā | iti | jāraḥ | kanīnaḥ-iva | cakṣadānaḥ | ṛjra-aśvaḥ | śatam | ekam | ca | meṣān