Sukta 1.112
याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः । याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
याभि॑र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि॑र्वि॒त्तजा॑निं दुव॒स्यथ॑: । याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
yā́bhir vamráṃ vi-pipānáṃ upa-stutáṃ kalíṃ yā́bhir vitta-jā́niṃ duvasyáthāḥ | yā́bhir vy-àśvam utá pṛ́thim ā́vatam tā́bhir ū́ ṣú ūtíbhir aśvinā́ ā́ gatam ||
যি শক্তিসমূহে তোমালোক সন্নিহিতভাৱে প্ৰশংসিত, উদ্গ্ৰীৱ পানকাৰী বম্ৰক সেৱা কৰি পোষণ কৰিলা; যি শক্তিসমূহে লাভ-জ্ঞানী কালীক সন্মান কৰিলা। যি শক্তিসমূহে ব্যশ্বক আৰু লগতে পৃথিক সহায় কৰিলা; সেই একে সহায়সমূহে, হে অশ্বিনদ্বয়, আমাৰ ওচৰলৈ আহা।
याभिः॑ । व॒म्रम् । वि॒ऽपि॒पा॒नम् । उ॒प॒ऽस्तु॒तम् । क॒लिम् । याभिः॑ । वि॒त्तऽजा॑निम् । दु॒व॒स्यथः॑ । याभिः॑ । विऽअ॑श्वम् । उ॒त । पृथि॑म् । आव॑तम् । ताभिः॑ । ऊँ॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥याभिः । वम्रम् । विपिपानम् । उपस्तुतम् । कलिम् । याभिः । वित्तजानिम् । दुवस्यथः । याभिः । विअश्वम् । उत । पृथिम् । आवतम् । ताभिः । ऊँ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥yābhiḥ | vamram | vi-pipānam | upa-stutam | kalim | yābhiḥ | vitta-jānim | duvasyathaḥ | yābhiḥ | vi-aśvam | uta | pṛthim | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | aśvinā | ā | gatam