शिष्याश्च स्वस्वकार्येषु प्रार्थयन्ति न संशयः ।
तत्तत्कर्मकरव्यग्रः स्वाभ्यासेऽविस्मृतो भवेत् ॥
अविस्मृत्य गुरोर्वाक्यमभ्यसेत्तदहर्निशम् ।
एवं भवेद्धठावस्था सन्तताभ्यासयोगतः ॥
शिष्याः । च । स्व-स्व-कार्येषु । प्रार्थयन्ति । न । संशयः ।
तत्-तत् । कर्म । कर्तु-व्यग्रः । स्व-अभ्यासे । अविस्मृतः । भवेत् ।
अविस्मृत्य । गुरोः । वाक्यम् । अभ्यसेत् । तत् । अहः-निशम् ।
एवम् । भवेत् । हठ-अवस्था । सन्तत-अभ्यास-योगतः ।
śiṣyāś ca svasvakāryeṣu prārthayanti na saṃśayaḥ |
tattat karmakartavyagraḥ svābhyāse 'vismṛto bhavet ||
avismṛtya guror vākyaṃ abhyaset tad aharniśam |
evaṃ bhaved haṭhāvasthā santatābhyāsayogataḥ ||
والتلاميذُ في شؤونهم الخاصة يطلبون (العون) بلا ريب. وبينما ينشغل المرء بإنجاز تلك الأعمال المتنوعة، لا ينبغي أن ينسى ممارسته الذاتية. ومن غير أن ينسى كلامَ المعلّم، فليتمرّن عليه ليلًا ونهارًا. هكذا تنشأ حالةُ الهَثا (هَثافَسْثا) بيوغا المداومة على التمرين.
And disciples, in their respective tasks, request (assistance)—there is no doubt. Engaged in doing those various actions, one should not become forgetful of one’s own practice. Not forgetting the guru’s instruction, one should practice it day and night. Thus the state of Haṭha (haṭhāvasthā) arises through yoga consisting of continuous practice.