Prashna
ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत् तत् कवयो वेदयन्ते । तमोङ्कारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं चेति ॥७॥
ऋग्भिः । एतम् । यजुर्भिः । अन्तरिक्षम् । सामभिः । यत् । तत् । कवयः । वेदयन्ते । तम् । ओङ्कारेण । एव । आयतनेन । अन्वेति । विद्वान् । यत् । तत् । शान्तम् । अजरम् । अमृतम् । अभयम् । परम् । च । इति ॥७॥
ṛgbhir etaṃ yajurbhir antarikṣaṃ sāmabhir yat tat kavayo vedayante | tam oṅkāreṇaivāyatane nānv eti vidvān yat tac chāntam ajaram amṛtam abhayaṃ paraṃ ceti ||7||
ذلك الذي يعرفه الراؤون بآيات الرِّغ، وبصيغ اليَجُس، وبأناشيد السَّامان—ذلك الواقع يناله العارف بـ«أوم» وحدها، إذ هي المأوى والمرتكز؛ ذاك الذي هو السكينة، غيرُ الشيخوخة، الخلود، الأمان من الخوف، والأسمى.
That which the seers know through the Ṛg-verses, through the Yajus-formulas, and through the Sāman-chants— that (reality) the knower attains by Oṁ alone as the support (āyatana): that which is peaceful, unaging, immortal, fearless, and supreme.