Parabrahma
बहिःसूत्रं त्यजेद्विप्रो योगविज्ञानतत्परः । ब्रह्मभावमिदं सूत्रं धारयेद्यः स मुक्तिभाक् ॥ नाशुचित्वं न चोच्छिष्टं तस्य सूत्रस्य धारणात् ॥१०॥
बहिः-सूत्रम् । त्यजेत् । विप्रः । योग-विज्ञान-तत्परः । ब्रह्म-भावम् । इदम् । सूत्रम् । धारयेत् । यः । सः । मुक्ति-भाक् ॥ न । अशुचित्वम् । न । च । उच्छिष्टम् । तस्य । सूत्रस्य । धारणात् ॥१०॥
bahiḥ-sūtraṃ tyajed vipro yogavijñāna-tatparaḥ | brahmabhāvam idaṃ sūtraṃ dhārayed yaḥ sa mukti-bhāk || nāśucitvaṃ na cocchiṣṭaṃ tasya sūtrasya dhāraṇāt ||10||
على البِرهميّ (الڤِبرا) المنشغل بمعرفة اليوغا أن يترك الخيط المقدّس الخارجي. ومن يحمل هذا الخيط بوصفه حالَةَ براهْمَن يصير شريكًا في التحرّر. وبحمل ذلك الخيط لا تكون نجاسةٌ ولا حالةُ «البقايا» (أُتشيشْطا).
The brāhmaṇa (vipra), intent on the knowledge of yoga, should abandon the external sacred thread. He who bears this thread as the state (bhāva) of Brahman becomes a partaker of liberation. From the wearing (bearing) of that thread, there is neither impurity nor the condition of being ‘leftover’ (ucchiṣṭa).