Niralamba
परमात्मा स ब्रह्मा स विष्णुः स इन्द्रः स शमनः स सूर्यः स चन्द्रः । ते सुरास्ते असुरास्ते पिशाचास्ते मनुष्यास्ताः स्त्रियस्ते पश्वादयः । तत्स्थावरं ते ब्राह्मणादयः । सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चन ॥८-९॥
परमात्मा । सः ब्रह्मा । सः विष्णुः । सः इन्द्रः । सः शमनः । सः सूर्यः । सः चन्द्रः । ते सुराः । ते असुराः । ते पिशाचाः । ते मनुष्याः । ताः स्त्रियः । ते पशु-आदयः । तत् स्थावरम् । ते ब्राह्मण-आदयः । सर्वम् खलु इदम् ब्रह्म । न इह नाना अस्ति किञ्चन ॥८-९॥
paramātmā sa brahmā sa viṣṇuḥ sa indraḥ sa śamanaḥ sa sūryaḥ sa candraḥ | te surās te asurās te piśācās te manuṣyās tāḥ striyas te paśvādayaḥ | tat sthāvaraṃ te brāhmaṇādayaḥ | sarvaṃ khalvidaṃ brahma neha nānāsti kiñcana ||8-9||
الباراماتمان هو براهما، وهو فيشنو، وهو إندرا، وهو يَمَ (إله الموت)، وهو الشمس، وهو القمر؛ هو الآلهة وهو الأسورا، وهو البيشاتشا، وهو البشر، وهو النساء، وهو الحيوانات وغيرها، وهو الثابت غير المتحرك، وهو البراهمة وغيرهم. حقًّا إن هذا كلَّه برهمن؛ لا تعدّد هنا البتّة.
The Supreme Self—He is Brahmā; He is Viṣṇu; He is Indra; He is Yama; He is the Sun; He is the Moon. They are the gods; they are the asuras; they are the piśācas; they are human beings; they are women; they are animals and the rest; that which is stationary (the immobile) is that; they are brāhmaṇas and the rest. All this indeed is Brahman; here there is no plurality whatsoever.