स॒न्नः सिन्धु॑रवभृ॒थायोद्य॑तः समु॒द्रो॒ऽभ्यवह्रि॒यमा॑णः स॑लि॒लः प्रप्लु॑तो ययो॒रोज॑सा स्कभि॒ता रजा॑ᳪसि वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा । या पत्ये॑ते॒ अप्र॑तीता॒ सहो॑भि॒र्विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ
sánnaḥ síndhur avabhṛ́thāyódyataḥ samudró ’bhyavahriyámāṇaḥ saliláḥ praplutó yayór ójasā skabhitā́ rájāṃsi vī́ryebhir vī́ratamā śáviṣṭhā | yā́ patyéte aprátītā sáhobhir víṣṇū agán váruṇā pū́rvahūtau
لِيَكُنْ لَنَا السِّندهو (Sindhu) نِعْمَةً، وقد رُفِعَ لأجلِ الأڤَبْهْرِثا (Avabhṛtha)؛ ولْيَكُنِ المُحِيطُ (السَّمُدْرَ) وهو يُساقُ مُنْدَفِعًا؛ وسَيْلُ المياهِ الفائِضُ—بِقُوَّتِهِما تُثَبَّتُ الأقاليمُ، أَشَدَّهُما بَسَالَةً، أَعْظَمَهُما مَنَعَةً في قُوَاهُما. هُما اللذانِ يَحْكُمانِ بلا مُعارِضٍ بِسَطْوَتِهِما—فِشْنُو (Viṣṇu) وَفَرُونَة (Varuṇa)، المَدْعُوَّانِ مُنْذُ القِدَمِ، قد أَقْبَلا.
सत्-नः । सिन्धुः । अवभृथाय । उद्यतः । समुद्रः । अभ्यवह्रियमाणः । सलिलः । प्रप्लुतः । ययोः । ओजसा । स्कभिताः । रजांसि । वीर्येभिः । वीरतमाः । शविष्ठाः । या । पत्येते । अप्रतीताः । सहोभिः । विष्णू । अगन् । वरुणा । पूर्वहूतौ ।