प्रो॒ह्यमा॑ण॒: सोम॒ आग॑तो॒ वरु॑ण आस॒न्द्यामास॑न्नो॒ ऽग्निराग्नी॑ध्र॒ इन्द्रो॑ हवि॒र्धाने॑ ऽथ॑र्वोपावह्रि॒यमा॑णः
próhyamāṇaḥ sóma ā́gato váruṇa āsándyām āsánno 'gnír āgnī́dhra índro havirdhā́ne 'tharvā upāvahriyámāṇaḥ
حين يُحمل سوما إلى الأمام يكون قد أتى؛ وڤارونا جالسٌ على مقعد سوما؛ وأغني في موضع الآغنيدهرا (Āgnīdhra)؛ وإندرا في موضع الهڤيردهانا (Havirdhāna)؛ وأثارڤان (حاضرٌ) إذ يُقاد إلى القرب.
प्र-उह्यमाणः । सोमः । आगतः । वरुणः । आसन्द्याम् । आसन्नः । अग्निः । आग्नीध्रम् । इन्द्रः । हविर्धाने । अथर्वा । उपावह्रियमाणः