अच्छि॑न्नस्य ते देव सोम सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तार॑: स्याम । सा प्र॑थ॒मा सँस्कृ॑तिर्वि॒श्ववा॑रा॒ स प्र॑थ॒मो वरु॑णो मि॒त्रो अ॒ग्निः
ácchinnasya te deva soma suvī́ryasya rāyáspoṣasya daditā́raḥ syāma | sā́ prathamā́ sáṃskṛtir viśvávārā sá prathamó váruṇo mitró agníḥ
يا الإله سوما، من عطائك غير المنقطع—من الـsuvīrya (قوة البطولة) ومن زيادة الثروة—لِنَكُنْ نحنُ المُعْطين. تلك هي الـsaṁskṛti الأولى، واهبةُ كلِّ النِّعَم؛ وهو الأوّل: فَرونا، مِترا، أَغني.
अच्छिन्नस्य । ते । देव । सोम । सुवीर्यस्य । रायस्पोषस्य । ददितारः । स्याम । सा । प्रथमा । संस्कृतिः । विश्ववारा । सः । प्रथमः । वरुणः । मित्रः । अग्निः ।