श्वा॒त्राः पी॒ता भ॑वत यू॒यमा॑पो अ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवा॑:। ता अ॒स्मभ्य॑मय॒क्ष्मा अ॑नमी॒वा अना॑गस॒: स्वद॑न्तु दे॒वीर॒मृता॑ ऋता॒वृध॑:
śvātrā́ḥ pītā́ bhavata yūyám ā́po asmā́kam antárudare suśévāḥ | tā́ asmábhyam ayakṣmā́ anamīvā́ anā́gasaḥ svádantu devī́r amṛ́tā ṛtāvṛ́dhaḥ
يا أيتها المياه (Āpaḥ)، إذا شُرِبتِ فكوني مُعافيةً؛ وكوني لطيفةً في داخل بطوننا. ولتكن تلك المياه الإلهية الخالدة، المُنمِّية لـ Ṛta، حلوةً لنا: خاليةً من داء الهزال (yakṣmā)، خاليةً من المرض (anāmīvā)، خاليةً من الإثم (anāgas).
श्वात्राः । पीताः । भवत । यूयम् । आपः । अस्माकम् । अन्तर्-उदरे । सु-शेवाः । ताः । अस्मभ्यम् । अयक्ष्माः । अनमीवाः । अनागसः । स्वदन्तु । देवीः । अमृताः । ऋत-वृधः ।