अना॑धृष्टा पु॒रस्ता॑द॒ग्नेराधि॑पत्य॒ आयु॑र्मे दाः पु॒त्रव॑ती दक्षिण॒त इन्द्र॒स्याधि॑पत्ये प्र॒जां मे॑ दाः । सु॒षदा॑ प॒श्चाद्दे॒वस्य॑ सवि॒तुराधि॑पत्ये॒ चक्षु॑र्मे दा आस्रु॑तिरुत्तर॒तो धा॒तुराधि॑पत्ये रा॒यस्पोषं॑ मे दाः । विधृ॑तिरु॒परि॑ष्टा॒द्बृह॒स्पते॒राधि॑पत्ये॒ ओजो॑ मे दा विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑स्पाहि मनो॒रश्वा॑सि
anā́dhṛṣṭā purástād agnér ādhipátye ā́yur me dāḥ | putrávatī dakṣiṇatá índrasyādhipátye prajā́ṃ me dāḥ | suṣádā paścā́d devásya savitúr ādhipátye cákṣur me dā | āsrútiḥ uttarató dhātúr ādhipátye rāyás-poṣaṃ me dāḥ | vidhṛ́tir uparíṣṭād bṛ́haspáter ādhipátye ójo me dā | viśvā́bhyo mā nāṣṭrā́bhyo ’spāhi manór aśvó ’si |
غيرُ مُعتدىً عليه من الأمام، تحت سيادةِ أَغني، امنحني العُمر. مُثمِرًا من الجنوب، تحت سيادةِ إندرا، امنحني الذرية. ثابتَ المقعد من الخلف، تحت سيادةِ الإله سافيتار، امنحني البصر. غيرَ منقطعٍ من الشمال، تحت سيادةِ دْهاتَر، امنحني الثروةَ مع النماء. مُسنِدًا من فوق، تحت سيادةِ بْرِهَسْپَتي، امنحني القوّة (أوجَس). احمِني من جميع الآفات؛ أنتَ فرسُ مانَس (العقل).
अना॑धृष्टा । पुरस्ता॑त् । अग्नेः । आधिपत्ये । आयुः । मे । दाः । पुत्रवती । दक्षिण॒तः । इन्द्रस्य । आधिपत्ये । प्रजाम् । मे । दाः । सुषदा । पश्चात् । देवस्य । सवितुः । आधिपत्ये । चक्षुः । मे । दाः । आस्रुतिः । उत्तरतः । धातुः । आधिपत्ये । रायः-पोषम् । मे । दाः । विधृतिः । उपरिष्टात् । बृहस्पतेः । आधिपत्ये । ओजः । मे । दाः । विश्वाभ्यः । मा । नाष्ट्राभ्यः । अस्पाहि । मनोः । अश्वः । असि ।