त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रि॒ᳪशच्च॑ दे॒वा नव॑ चासपर्यन् । औक्ष॑न् घृ॒तैरस्तृ॑णन् ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॒सादयन्त
trī́ṇi śatá trī́ sahásrāṇy agníṃ triṃśácc a devā́ náva cāsaparyan | áukṣan ghr̥táir ástr̥ṇan bárhir asmai ā́d íd dhótāraṃ nyàsādayanta
ثلاثمائةٍ وثلاثةُ آلافٍ وتسعةٌ وثلاثون من الآلهةِ أكرموا أَغني؛ وبالسَّمْنِ (ghee) رشّوه، ولأجله بسطوا البَرْهِس (barhis)؛ ثم حقًّا أجلسوا الهوتَر (Hotṛ).
त्रीणि । शता । त्री । सहस्राणि । अग्निम् । त्रिंशत् । च । देवाः । नव । च । असपर्यन् । औक्षन् । घृतैः । अस्तृणन् । बर्हिः । अस्मै । आत् । इत् । होतारम् । नि । असादयन्त