म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ । श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे
máho agnéḥ samidhānásya śármaṇy anā́gā mitré váruṇe svastáye | śréṣṭhe syāma savitúḥ savī́mani tád devā́nām ávo adyá vṛṇīmahe
في الملاذ العظيم لأغني حين يُوقَد، لِنَكُنْ بلا إثمٍ، يا مِترا وفارونا، طلبًا للسَّلامة. لِنَكُنْ في أَفْضَلِ حالٍ، في إيقاظِ سافيتṛ؛ ذلك العَوْنَ من الآلهة نختاره اليوم.
म॒हः । अ॒ग्नेः । स॑मिधा॒नस्य॑ । शर्म॑णि । अना॑गाः । मि॒त्रे । वरु॑णे । स्व॒स्तये॑ । श्रेष्ठे॑ । स्याम । सवि॒तुः । सवी॑मनि । तत् । दे॒वाना॑म् । अवः । अ॒द्या । वृ॑णीमहे