प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॑ लो॒कान् प॒रीत्य॒ सर्वा॑: प्र॒दिशो॒ दिश॑श्च । उ॒प॒स्थाय॑ प्रथम॒जामृ॒तस्या॒त्मना॒ऽऽत्मान॑म॒भि सं वि॑वेश
parī́tya bhūtā́ni parī́tya lokā́n parī́tya sárvāḥ pradíśo díśaś ca | upasthā́ya prathamajā́m amṛ́tasyā́tmanā́tmā́nam abhí sáṃ viveśa
بعد أن أحاط بالكائنات، وأحاط بالعوالم، وأحاط بجميع الجهات الوسطى والجهات الأربع، ثم دنا من المولود الأول للخلود (أَمْرِتَا Amṛta)، بذاته دخل في ذاته دخولًا تامًّا.
परि-इत्य । भूतानि । परि-इत्य । लोकान् । परि-इत्य । सर्वाः । प्रदिशः । दिशः । च । उपस्थाय । प्रथम-जाम् । अमृतस्य । आत्मना । आत्मानम् । अभि । सम् । विवेश