ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेध्य॑श्च सप्ते । अ॒ग्निष्ट्वा॑ देवै॒र्वसु॑भिः स॒जोषा॑: प्री॒तं वह्निं॑ वहतु जा॒तवे॑दाः ।
īḍyáś cā́si vándyaś ca vājinn āśúś cā́si médhyaś ca sapté | agníṣ ṭvā deváir vásubhiḥ sajóṣāḥ prītáṃ váhniṃ vahatu jātávedāḥ |
أنتَ جديرٌ بالإنشاد ومدعوٌّ للعبادة، أيها الظافرُ بالغنيمة؛ أنتَ سريعٌ وصالحٌ للقربان، أيها ذو السبعِ مراتب. فَلْيَحْمِلْ أَغْنِي جَاتَافِيدَاس (Agni Jātavedas)، في وفاقٍ مع الآلهة، مع الفَسُو (Vasus)، الحاملَ المُبْتَهِجَ.
ईड्यः॑ । च॒ । अ॒सि॒ । वन्द्यः॑ । च॒ । वा॒जि॒न् । आ॒शुः । च॒ । अ॒सि॒ । मेध्यः॑ । च॒ । स॒प्ते॒ । अ॒ग्निः । त्वा॒ । दे॒वैः । वसु॑भिः । स॒जोषाः॑ । प्री॒तम् । वह्नि॑म् । वहतु । जा॒तवे॑दाः ।