तव॒ शरी॑रं पतयि॒ष्ण्व॒र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् । तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति
táva śárīraṃ patayiṣṇv arván táva cittáṃ vā́ta iva dhrájīmān | táva śṛṅgā́ṇi víṣṭhitā purutrā́raṇyeṣu járbhurāṇā caranti
يا أيها الجواد، إن جسدك ليتوق إلى الطيران، وعقلك كالريح مندفعٌ عاصف. وقرناك، متباعدان في موضعهما، يجولان بلا قرار في مواضع كثيرة، في الغابات.
तव । शरीरम् । पतयिष्णु । अर्वन् । तव । चित्तम् । वातः । इव । ध्रजीमान् । तव । शृङ्गाणि । विष्ठिताः । पुरुत्रा । अरण्येषु । जर्भुराणाः । चरन्ति ।