इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फाना॑ᳪ सनि॒तुर्नि॒धाना॑ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः
imā́ te vājin navamārjánānīmā́ śaphānā́ṃ sanitúr nidhānā́ḥ | átrā te bhadrā́ raśanā́ apaśyam ṛtásya yā́ abhirákṣanti gopā́ḥ
هذه هي تطهيراتُكَ التسعة، أيها فاجِن (Vājin)؛ وهذه هي الكنوزُ المودَعةُ لِفَوْزِ حوافرِكَ. هنا أبصرتُ لِجامَكَ الكريم—أولئك الحُرّاس الذين يحمون ṛta (النظامَ الكوني).
इमाः । ते । वाजिन् । नवमार्जनानि । इमाः । शफानाम् । सनितुः । निधानाः । अत्र । ते । भद्राः । रशनाः । अपश्यम् । ऋतस्य । याः । अभिरक्षन्ति । गोपाः