वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः । इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण । उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा
vaiśvānarásya sumatáu syāma rājā́ hí kaṃ bhúvanānām abhiśrī́ḥ | itó jātó víśvam idáṃ ví caṣṭe vaiśvānaráḥ yatate sū́ryeṇa | upayā́magṛhīto ’si vaiśvānaráya tvā́iṣá te yónir vaiśvānaráya tvā
لِنَكُنْ في حُسْنِ رِضا فَيْشْفَانَرَا (Vaiśvānara)؛ فإنه الملكُ، البهاءُ المتفوِّقُ على العوالم. وُلِدَ من هنا، فينظرُ ويُظهِرُ هذا الكونَ كلَّه؛ وفَيْشْفَانَرَا ينهضُ مع سُورْيَا (Sūrya). قد أُخِذتَ بالأُپَياَمَا (Upayāma): لفَيْشْفَانَرَا أنتَ! هذا رَحِمُكَ: لفَيْشْفَانَرَا أنتَ!
वै॒श्वा॒न॒रस्य॑ । सु॒म॒तौ । स्या॑म । राजा॑ । हि । क॑म् । भुव॑नानाम् । अ॒भि॒श्रीः । इ॒तः । जा॒तः । विश्व॑म् । इ॒दम् । वि । च॑ष्टे । वैश्वान॒रः । य॑तते । सूर्ये॑ण । उ॒प॒या॒म-गृ॑हीतः । अ॑सि । वैश्वान॒राय॑ । त्वा । ए॒षः । ते॒ । योनि॑ः । वैश्वान॒राय॑ । त्वा