शादं॑ द॒द्भिरव॑कां दन्तमूलै॒र्मृदं॒ बर्स्वै॑स्ते॒गान्दᳪष्ट्रा॑भ्या॒ᳪ सर॑स्वत्या अग्रजि॒ह्वं जि॒ह्वाया॑ उत्सा॒दम॑वक्र॒न्देन॒ तालु॒ वाज॒ᳪ हनु॑भ्याम॒प आ॒स्ये॒न॒ वृष॑णमा॒ण्डाभ्या॑मादि॒त्याँ श्मश्रु॑भि॒: पन्था॑नं भ्रू॒भ्यां द्यावा॑पृथि॒वी वर्तो॑भ्यां वि॒द्युतं॑ क॒नीन॑काभ्याᳪ शु॒क्लाय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा॒ पार्या॑णि॒ पक्ष्मा॑ण्यवा॒र्या॒ इ॒क्षवो॑ऽवा॒र्या॒णि॒ पक्ष्मा॑णि॒ पार्या॑ इ॒क्षव॑:
śā́daṃ dadbhír avakā́ṃ dantamū́lair mṛ́daṃ barsváis tegā́n daṃṣṭrā́bhyāṁ sárasvatyā agrajihváṃ jihvā́yā utsādám avakrandéna tā́lu vā́jaṃ hánubhyām ápa āsyéna vṛ́ṣaṇam āṇḍā́bhyām ādityā́ñ śmaśrúbhiḥ pánthānaṃ bhrū́bhyāṃ dyā́vā-pṛthivī́ vartóbhyāṃ vidyútam kanī́nakābhyāṃ śuklā́ya svā́hā kṛṣṇā́ya svā́hā pā́ryāṇi pákṣmāṇy avāryā́ ikṣávo ’vāryā́ṇi pákṣmāṇi pā́ryā́ ikṣávaḥ
بالأسنان (أُسند) شادا؛ وبأصول الأسنان أفاكَا؛ وبالأنياب الطينَ والرؤوسَ الحادّة؛ وبطرف اللسان (أُسند) سَرَسْوَتِي؛ وباللسان الموضعَ المرتفع؛ وبالحنك القوّة (فاجا)؛ وبالفكّين المياه؛ وبالفم القوّةَ الذكوريّة؛ وبالخصيتين الآدِتْيَات؛ وباللحية الطريق؛ وبالحاجبين دْيَاوْس وبْرِثِفِي؛ وبالجفنين البرق؛ للأبيض سْفَاهَا، وللأسود سْفَاهَا. أهدابٌ من الجانب الآخر، وقصبُ سُكّرٍ من الجانب الآخر؛ أهدابٌ من الجانب الآخر، وقصبُ سُكّرٍ من الجانب الآخر.
शादम् । दद्भिः । अवकाम् । दन्त-मूलैः । मृदम् । बर्स्वैः । तेगान् । दंष्ट्राभ्याम् । सरस्वत्याः । अग्र-जिह्वम् । जिह्वायाः । उत्सादम् । अवक्रन्देन । तालु । वाजम् । हनुभ्याम् । अपः । आस्येन । वृषणम् । अण्डाभ्याम् । आदित्यान् । श्मश्रुभिः । पन्थानम् । भ्रूभ्याम् । द्यावा-पृथिवी । वर्तोभ्याम् । विद्युतम् । कनीनकाभ्याम् । शुक्लाय । स्वाहा । कृष्णाय । स्वाहा । पार्याणि । पक्ष्माणि । अवार्याः । इक्षवः । अवार्याणि । पक्ष्माणि । पार्याः । इक्षवः