हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
hiraṇyágarbhaḥ sám avartatā́gre bhūtásya jātáḥ pátir éka āsīt | sá dā́dhāra pṛthivī́ṁ dyā́m utémā́ṁ kásmai devā́ya havíṣā vidhema
نهض هيرانياغربها (Hiraṇyagarbha) في البدء؛ ولمّا وُلِد كان هو الربّ الواحد، سيّد كلّ ما هو كائن. هو الذي أقام هذه الأرض وذلك السماء: فأيَّ إلهٍ نقدّم له العبادة مع الهَفِس (القربان)؟
हिरण्यगर्भः । सम्-अवर्तत । अग्रे । भूतस्य । जातः । पतिः । एकः । आसीत् । सः । दाधार । पृथिवीम् । द्याम् । उत । इमाम् । कस्मै । देवाय । हविषा । विधेम ।