अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यास॑: । तेषां॑ व॒यᳪ सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म
aṅgíraso naḥ pitáro návagvā́ atharvā́ṇo bhṛ́gavaḥ somyā́saḥ | téṣāṃ vayáṃ sumatáu yajñíyānām ápi bhadré saumanasé syāma
الأَنْغِيرَسَةُ، آبَاؤُنَا، النَّفَغْفَا، وَالأَثَرْفَانُ، وَالبْهْرِغُو—المُسْتَحِقُّونَ لِسُومَا: لِنَكُنْ فِي حُسْنِ رِضَا أُولٰئِكَ المَكْرُمِينَ المُسْتَوْجِبِينَ لِلقُرْبَانِ؛ نَعَمْ، لِنُقِمْ فِي وِئَامٍ مُبَارَكٍ وَنِيَّةٍ كَرِيمَةٍ.
अङ्गिरसः । नः । पितरः । नव-ग्वाः । अथर्वाणः । भृगवः । सोम्यासः । तेषाम् । वयम् । सु-मतौ । यज्ञियानाम् । अपि । भद्रे । सौ-मनसे । स्याम