ऋचो॒ नामा॑स्मि॒ यजू॑ ᳪषि॒ नामा॑स्मि॒ सामा॑नि॒ नामा॑स्मि । ये अ॒ग्नय॒: पाञ्च॑जन्या अ॒स्यां पृ॑थि॒व्यामधि॑ । तेषा॑मसि॒ त्वमु॑त्त॒मः प्र नो॑ जी॒वात॑वे सुव
ŕ̥co nā́māsmi yájūṃṣi nā́māsmi sā́māni nā́māsmi | yé agnáyaḥ pā́ñcajanyā asyā́ṃ pr̥thivyā́m ádhi | téṣām asi tvám uttamáḥ prá no jīvā́tave suva ||
بالاسمِ أنا أَبياتُ الرِّتش (Ṛc)؛ وبالاسمِ أنا صِيَغُ اليَجُس (Yajus)؛ وبالاسمِ أنا أَنْشادُ السّامان (Sāman). ومن بين النيرانِ الخمسِ الأجناسِ القائمةِ على هذه الأرض، أنتَ الأسمى؛ فادفعْنا قُدُماً إلى الحياة.
ऋचः । नाम । अस्मि । यजूंषि । नाम । अस्मि । सामानि । नाम । अस्मि । ये । अग्नयः । पाञ्चजन्याः । अस्याम् । पृथिव्याम् । अधि । तेषाम् । असि । त्वम् । उत्तमः । प्र । नः । जीवातवे । सुव