वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे ऽर्थ॑श्च म॒ एम॑श्च म इ॒त्या च॑ मे॒ गति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्
vásu ca me vasatíś ca me kárma ca me śáktiś ca me ’rtháś ca me émaś ca me ityā́ ca me gátīś ca me yajñéna kalpantām
لتكن الثروة لي، وليكن لي مسكنٌ مستقرّ؛ وليكن لي العملُ والقوّة؛ وليكن لي القصدُ والاجتهاد؛ وليكن لي النظامُ المحكمُ وبلوغُ الظفر؛ فلتُرتَّبْ هذه كلُّها لي على وجهها باليَجْنَا (التضحية).
वसु । च॒ । मे॒ । वस॒तिः । च॒ । मे॒ । कर्म । च॒ । मे॒ । शक्तिः । च॒ । मे॒ । अर्थः । च॒ । मे॒ । एमः । च॒ । मे॒ । इत्या । च॒ । मे॒ । गतिः । च॒ । मे॒ । य॒ज्ञेन॑ । क॒ल्प॒न्ता॒म् ।