तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ । अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न् विश्वा॑नि॒ भुव॑नानि त॒स्थुः
tám íd gárbhaṃ prathamáṃ dadhre ā́po yátra devā́ḥ samágacchanta víśve | ajásya nā́bhāv ádhy ékam árpitaṃ yásmin víśvāni bhúvanāni tasthúḥ
ذلك الجَنينُ الأوّل بعينه احتضنته المياه، حيثُ اجتمعَتْ جميعُ الآلهة. على سُرّةِ غيرِ المولود ثُبِّتَ أمرٌ واحد؛ وفيه قامتْ جميعُ العوالمِ ثابتة.
तम् । इत् । गर्भम् । प्रथमम् । दध्रे । आपः । यत्र । देवाः । सम्-अगच्छन्त । विश्वे । अजस्य । नाभौ । अधि । एकम् । अर्पितम् । यस्मिन् । विश्वानि । भुवनानि । तस्थुः