नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नम॑: स्वायु॒धाय॑ च सु॒धन्व॑ने च
námo dhṛṣṇáve ca pramṛśā̀ya ca námo niṣaṅgíṇe ceṣudhímaté ca námas tīkṣṇéṣave cāyudhíne ca námaḥ svāyudhā̀ya ca sudhánvane ca
سجودٌ (نمو) للجسور وللمهاجم؛ سجودٌ لحاملِ السيف ولذي الكِنانة؛ سجودٌ لذي السهامِ الحادّة وللمتسلّح؛ سجودٌ لذي السلاحِ الذاتي ولحَسَنِ القوس.
नमः । धृष्णवे । च । प्रमृशाय । च । नमः । निषङ्गिणे । च । इषुधिमते । च । नमः । तीक्ष्णेषवे । च । आयुधिने । च । नमः । स्वायुधाय । च । सुधन्वने । च