नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नम॑ः श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्या॒य चाहन॒न्या॒य च
námo bilmíne ca kavacíne ca námo varmíṇe ca varūthíne ca námaḥ śrutā̀ya ca śrutásenāya ca námo dundubhyā̀ya cāhananyā̀ya ca
سجودٌ (نمو) لذي الخوذة ولذي الدرع؛ سجودٌ لذي الزَّرَد ولذي الحِمى؛ سجودٌ للمشهور ولذي الجيشِ المشهور؛ سجودٌ للطبل ولغيرِ المقهور.
नमः । बिल्मिने । च । कवचिने । च । नमः । वर्मिणे । च । वरूथिने । च । नमः । श्रुताय । च । श्रुतसेनाय । च । नमः । दुन्दुभ्याय । च । अहनन्याय । च