सह॑सा जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् प्रत्यजा॑ताञ्जातवेदो नुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यᳪ स्या॑म॒ प्र णु॑दा नः स॒पत्ना॑न्
sáhasā jātā́n prá ṇudā naḥ sapátnān prátyajātāñ jātavedo nudasva | ádhi no brūhi sumanasyámāno vayáṁ syāma prá ṇudā naḥ sapátnān
بقوّةٍ اطردْ خصومَنا المولودين؛ وادفعْ عنّا من وُلِدوا ضدَّنا، يا جاتافيداس. وتكلَّمْ علينا بكلمةِ بركةٍ وأنتَ راضٍ القلب، لكي نكونَ في أمان؛ اطردْ خصومَنا.
सहसा । जातान् । प्र । नुद । नः । सपत्नान् । प्रति-जातान् । जात-वेदः । नुदस्व । अधि । नः । ब्रूहि । सुमनस्य-मानः । वयम् । स्याम । प्र । नुद । नः । सपत्नान्