स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्ये॑ अ॒ग्नेः
samyák srávanti saríto ná dhénā antárhṛdā mánasā pūyámānāḥ | ghṛtásya dhā́rā abhí cākṣimi hiraṇyáyo vetáso mádhye agnéḥ |
على وجهٍ قويمٍ تجري، كالأَنهار، وكالأبقارِ الحلوب، مُطهَّرةً بالعقلِ مع قلبٍ باطن؛ وإني لأُبصر بثباتٍ سُيولَ السَّمْنِ المُقدَّس (غِهْرِتا)—ذهبيةً—في وسطِ القصب، في أغني.
सम्यक् । स्रवन्ति । सरितः । न । धेनाः । अन्तः-हृदा । मनसा । पूयमानाः । घृतस्य । धाराः । अभि । चाकशीमि । हिरण्ययः । वेतसः । मध्ये । अग्नेः ।