भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒: सच॑से शि॒वाभि॑: । दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म्
bhúvo yajñásya rájasas ca netā́ yátrā niyúdbhíḥ sácase śivā́bhiḥ | diví mūrdhā́naṃ dadhíṣe svàrṣāṃ jihvā́m agne cakṛṣe havyavā́ham
أنتَ قائدُ اليَجْنَة، للأرضِ وللفضاءِ الأوسط؛ حيثُ تسيرُ مع النِّيرَانِ الموصولةِ المباركة. وفي السماء تضعُ الرأسَ؛ ولسانًا يبلغُ «سْفَه» صغتَ، يا أغني، حامِلًا للقرابين.
भुवः । यज्ञस्य । रजसः । च । नेता । यत्र । नियुद्भिः । सचसे । शिवाभिः । दिवि । मूर्धानम् । दधिषे । स्वः-साम् । जिह्वाम् । अग्ने । चकृषे । हव्य-वाहम्