अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौ: क्षामा॒ रेरि॑हद्वी॒रुध॑: सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः
ákra̍ndad a̱gní sta̱náyann iva dyáuḥ kṣā́mā re̍rihad vī̱rúdhaḥ sama̱ñján | sa̱dyó ja̍jñāno ví hīm i̱ddhó a̱khyad ā́ ródasī bhā̱núnā bhāty a̱ntáḥ
زأرَ أغني كأنّ السماءَ تُرعِد؛ ولعقَ الأرضَ مُلتَهِمًا النباتَ، وهو يَصِلُ الأقاليمَ بعضها ببعض. وما إن وُلِدَ—نعم، حين أُوقِد—حتى تَجَلّى؛ وبشعاعه يَتَلألأ في الداخل نحو العالَمَين.
अक्र॑न्दत् । अ॒ग्निः । स्त॒नय॑न् । इ॒व॒ । द्यौः । क्षामा॒ । रेरि॑हत् । वी॒रुधः॑ । स॒म॒ञ्जन् । स॒द्यः । ज॑ज्ञा॒नः । वि । हि । इ॒म्ः॒ । इ॒द्धः । अख्य॒त् । आ । रोद॑सी । भा॒नुना॑ । भा॒ति॒ । अ॒न्तः